राजधान्यां महाशैत्यं
••• सुरेश: उवाच •••
राजधान्यां महाशैत्यं कथं सोढुं हि शक्यते।
शय्यातोऽपि बहिर्गत्वा सर्वं कर्म सुदुष्करम् ॥१॥
और्ण¹वस्त्राण्यनेकानि स्वेदकं² ग्रीवबन्धनम्³।
प्रावारको⁴ शाटको⁵ वा सर्वं तत्र हि निष्फलम् ॥२॥
दन्तास्तु किट्-किटायन्ते वक्तुं किंचिन्न शक्नुमः।
उष्णपेयानि पीत्वाऽपि दारु⁶भूतोऽस्थिपिञ्जरः ॥३॥
दारू⁷प्रियाश्च मन्यन्ते उष्णपेयं वृथा यदा।
उन्मत्तास्ते विजानन्ति दारूपेयोपि निष्फलम् ॥४॥
पादकोशं⁸, हस्तकोशं⁹, शिरस्त्राणं¹⁰ हि स्वेदकं।
और्णकोशं¹¹ निचोलं¹² वा धृत्वा गच्छेद् बहि: सदा ||४॥
[कथंचित् ✍️ मम लेखनीत: नि:सृतं लोककल्याणाय।]
¹ ऊनी
²स्वेटर
³मफ़लर
⁴चादर, दोहर
⁵शॉल
⁶लकड़ी
⁷दारू
⁸मोजे
⁹दस्ताने
¹⁰टोपी, हेल्मेट
¹¹ऊनी जैकेट
¹²पश्मीना, उत्तरीय
---। ---।
No comments:
Post a Comment